Homeसनातन संस्कृति#विष्णुकृतशिवमहिमस्तोत्र।। ॥ शिवमहिमस्तोत्रम् ।।

#विष्णुकृतशिवमहिमस्तोत्र।। ॥ शिवमहिमस्तोत्रम् ।।

#विष्णुकृतशिवमहिमस्तोत्र। ॥

अथ #शिवमहिमस्तोत्रम् श्रीस्कन्दपुराणे ॥
॥ श्रीगणेशाय नमः ॥

॥ श्रीविष्णुरुवाच ॥
महेशानन्ताद्य त्रिगुणरहितामेयविमल
स्वराकारापारामितगुणगणाकारिनिवृते ।
निराधाराधारामरवर निराकार परम
प्रभापूराकारावर पर नमो वेद्य शिव ते ॥ १॥
नमो वेदावेद्याखिलजगदुपादान नियतं
स्वतन्त्रासामान्तानवधुतिनिजाकारविरते ।
निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा
यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते॥२॥
त्वदन्यद्वस्त्वेकं न हि भव समस्तत्रिभुवने
विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः ।
ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो
न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते॥३॥
त्वयैवेमं लोकं निखिलममलं व्याप्य सततं
तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ।
त्वयैवैतत्सृष्टं जादखिलमीशान भगवन्-
विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते॥४॥
जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं
त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् ।
तदेवाग्रे भालप्रकटनयनाद्भुतकरआ-
ज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥ ५॥
विभूतीनामन्तो भव न भवतो भूतिविलसन्-
निजाकार श्रीमन्न गुणगणसीमाप्यवगता ।
अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता
भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते॥६॥
विराड्रूपं यत्ते सकलनिगमागोचरमभूत्-
तदेवेदं रूपं भवति किमिदं भिन्नमथवा ।
न जाने देवेश त्रिनयन सुराराध्यचरण
त्वओङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते॥७॥
यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं
तवेदं सञ्चिन्त्य स्वमनसि सदाऽऽसन्नविहताः ।
ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा
किमेतज्जानेऽहं शरणद नमः शर्व शिव ते॥८॥
तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा
ततः संहृत्यैतन्निवसति तदाधारमथवा ।
इदं ते किं रूपं निरुपम न जाने हर विभो
विसर्गः को वा ते तमपि हि नमो भव्य शिव ते॥९॥
तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि ।
निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं
न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ १०॥
तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभू-
दृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् ।
यतः सत्यं सत्यं शममपि समस्तं तव विभो
कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥ ११॥
तवामेयं मेयं यदपि तदमेयं विरचितं
न वामेयं मेयं रचितमपि मेयं विरचितुम् ।
न मेयं मेयं ते न खलु परमेयं परमयं
न मेयं नामेयं वरमपि नमो देव शिव ते ॥ १२॥
तवाहारं हारं विदितमविहारं विरहसं
नवाहारं हारं हर हरसि हारं न हरसि ।
न वाहारं हारं परतरविहारं परतरं
परं पारं जाने न हि खलु नमो विश्वशिव ते ॥ १३॥
यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं
न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ।
न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे
न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥ १४॥
इदं रूपं रूपं सदसदमलं रूपमपि चेन्-
न जाने रूपं ते तरतमविभिन्नं परतरम् ।
यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं
न जाने सर्वात्मन् क्वचिदपि नमोऽनन्त शिव ते॥१५॥
महद्भूतं भूतं यदपि न च भूतं तव विभो
सदा भूतं भूतं किमु न भक्तो भूतविषये ।
यदाभूतं भूतं भवति हि न भव्यं भगवतो
भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥ १६॥
वशीभूता भूता सततमपि भूतात्मकतया
न ते भूता भूतास्तव यदपि भूता विभुतया ।
यतो भूता भूतास्तव तु न हि भूतात्मकतया
न वा भूता भूताः क्वचिदपि नमो भूत शिव ते॥१७॥
न ते मायामाया सततमपि मायामयतया
ध्रुवं मायामाया त्वयि वर न मायामयमपि ।
यदा मायामाया त्वयि न खलु मायामयतया
न मायामाया वा परमय नमस्ते शिव नमः॥१८॥
यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् ।
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः
करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥ १९॥
शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं
न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम् ।
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं
न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते॥२०॥

यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं
जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम् ।
यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां
न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते॥२१॥
न वेदं यद्रूपं निगमविषयं मङ्गलकरं
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो ।
ततश्चित्ते शम्भो न हि मम विषादोऽघविकृतिः
प्रयत्नाल्लब्धेऽस्मिन्न किमपि नमः पूर्ण शिव ते॥२२॥
तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं
तदेवातीतं सन्नयनपदवीं नात्र तनुते ।
कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव
स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते॥२३॥
त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं
त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन्।
ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्-
न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते॥२४॥
विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं
नवं नागाहारं भसितममलं भासुरतनुम् ।
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते
न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते॥२५॥
तवापाण्गः शुद्धो यदि भवति भव्ये शुभकरः
कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति ।
स एवैताँल्लोकान् रचयितुमलं सापि च महान्
कृपाधारोऽयं सुखयति नमोऽनन्त शिव ते॥२६॥
भवन्तं देवेशं शिवमितरगीर्वाणसदृशं
प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते ।
स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं
ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते॥२७॥
प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे
भवानीमारूढामसकृदपि संवीक्ष्य भवता ।
कृतं सम्यन्नाट्यं प्रथितमिति वेदोऽपि भवति
प्रभावः को वाऽयं तव हर नमो दीप शिव ते॥२८॥
स्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं
यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् ।
विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति
श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते॥२९॥
धनुर्मेरुः शेषो धनुवरगुणो यानमवनि-
स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः ।
पुरोलक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः
किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते॥३०॥
मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा
तमोयुक्तं शुद्धं हरमपि शिवं निष्कलमिति ।
वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं
त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते॥३१॥
जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि
प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् ।
त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो
वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते॥३२॥
त्वमेवालोकानामधिपतिरुमानाथ जगतां
शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ।
त्वदन्यो निर्वाणं तट इति च निर्वाणयतिर-
प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते॥३३॥
तवैवांशो भानुस्तपति विधुरप्येति पवनः
पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ।
तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं
त्वमेकः स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते॥३४॥
स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं
नियन्ता देवानामपि हर नियन्तासि न परः ।
शिवः शुद्धा मायारहित इति वेदोऽपि वदति
स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते॥३५॥
नमो रुद्रानन्तामरवर नमः शङ्कर विभो
नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल ।
नमः शर्व श्रीमन्ननघ महदैश्वर्यनिलय
स्मरारे पापारे जय जय नमः सेव्य शिव ते॥३६॥
महादेवामेयानघगुणगणप्रामवसतन्-
नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ।
पुराराते शम्भो पुनरपि नमस्ते शिव विभो
नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते॥३७॥
कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः
कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ।
अनन्तैराकल्पं शिव गुणगणश्चारुरसनै-
र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम्॥३८॥
मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा
सकामेनामेया सततमपराधा बहुविधाः ।
त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा
कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥ ३९॥
प्रमादाद्ये केचिद्विततमपराधा विधिहताः
कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् ।
शिव श्रीमच्छम्भो शिवशिव महेशेति च जपन्
क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम्॥४०॥
इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ।
निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम्॥४१॥
तदा शिवः शिवं रूपमादायोवाच सर्वगः ।
भीषयन्नखिलान्भूतान् घनगम्भीरया गिरा॥४२॥
मदीयं रूपममलं कथं ज्ञेयं भवादृशैः ।
यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः॥४३॥
ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् ।
विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः॥४४॥
तादृशी शिव मे वाच्छा पूजयित्वा वदाम्यहम् ।
नान्यो मयाऽर्च्यो देवेषु विना शम्भुं सनातनम्॥ ४५॥
त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः ।
विहायैवान्यदेवानां पूजनं शेष सर्वदा॥४६॥
॥ इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं सम्पूर्णम् ॥

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -spot_img
- Advertisment -spot_img

Most Popular